FANDOM


सरस्वतीस्तोत्रम् - १Edit

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेष जाड्याऽपहा ॥१॥

आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरी त्वाम् ॥२॥

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥३॥

सरस्वतीं च ताम् नौमि वागधिष्ठातृदेवताम् ।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जना: ॥४॥

पातु नो निकषग्रावा मतिहेम्न: सरस्वती ।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥५॥

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं ।
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां
वन्दे ताम् परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥६॥

वीणाधरे विपुलमङ्गलदानशीले भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये ।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वतिनौमि नित्यम् ॥७॥

श्वेताब्जपूर्णविमलासनसंस्थिते हे – श्वेताम्बरावृतमनोहरमञ्जुगात्रे ।
उद्यन्मनोज्ञसितपङ्कजमञ्जुलास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥८॥

मातस्त्वदीयपदपङ्कजभक्तियुक्ता – ये त्वां भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह यान्ति कलेवरेणभूवह्निवायुगगनाम्बुविनिर्मितेन ॥९॥

मोहान्धकारभरिते ह्रदये मदीये – मात: सदैव कुरु वासमुदारभावे ।
स्वीयाखिलावयवनिर्मलसुप्रभाभि: – शीघ्रं विनाशय मनोगतमन्धकारम् ॥१०॥

ब्रह्मा जगत् सृजति पालयतीन्दिरेश: – शम्भुर्विनाशयति देवि तव प्रभावै :।
न स्यात्कृपा यदि तव प्रकटभावे – न स्यु: कथञ्चिदपि ते निजकार्यदक्षा: ॥११॥

लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टि: प्रभा धृति: । एताभि: पाहि तनुभिरष्टाभिर्मां सरस्वति ॥१२॥

सरस्वति नमौ नित्यं भद्रकाल्यै नमो नम: । वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च ॥१३॥

सरस्वति महाभागे विद्ये कमललोचने । विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ॥१४॥
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥१५॥


सरस्वतीस्तोत्रम् - २Edit

ॐ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य ब्रह्मा ऋषि: । गायत्री छन्द: । श्रीसरस्वती देवता । धर्मार्थकाममोक्षार्थे जपे विनियोग: ॥ आरूढा श्‍वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या ।

सा वीणां वादयन्ती स्वकरकरजपै: शास्त्रविज्ञानशब्दै: क्रीडन्ती दिव्यरूपा करकमला भारती सुप्रसन्ना ॥ १ ॥

श्‍वेतपद्मासना देवी श्‍वेतगन्धानुलेपना । अर्चिता मुनिभि: सवैऋषिभि: स्तूयते सदा ।

एवं ध्यात्वा सदा देवीं वांच्छितं लभते नर: ॥ २ ॥

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्‌व्यापिनीं वीणपुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । ह

स्ते स्फाटिकमलिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्‍वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ३ ॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्‍वेतपद्मासना ।

या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सद वन्दिता सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥ ४ ॥

ह्रीं ह्रौं ह्रद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे भव्ये भव्यानुकूले कुमतिवनदवे विश्‍ववन्द्यांघ्रिपद्मे ।

पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसंपादयित्रि प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संहारसारे ॥ ५ ॥

ऎं ऎं ऎं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।

न स्थूले नैव सूक्ष्मेऽप्याविदितविभवे नापि विज्ञानतत्त्वे विश्‍वे विश्‍वान्तरात्मे सुरनरमनिते निष्कले नित्यशुद्धे ॥ ६ ॥

ह्लीं ह्लीं ह्लीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ॥

विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षेदे मुक्तिमार्गे मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे ॥ ७ ॥

धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभि: कीर्तनाये नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।

पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे मातर्मात्रार्धतत्त्वे मतिमति मतिदे माधवप्रीतिमोदे ॥ ८ ॥

हूं हूं हूं हूं स्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते संतुष्टाकारचित्ते स्मितमुखि शुभगे जृम्भिणि स्तम्भविद्ये ।

मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीडे गीर्गौर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये ॥ ९ ॥

स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम् ।

मा मे दु:खं कदाचित्क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कण्ठा कदापि ॥ १० ॥

इत्येतै: श्‍लोकमुख्यै: प्रतिदिनमुषसि स्तौति यो भक्‍तिनम्रो वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टकण्ठ: ।

स्यादिष्टाद्यर्थलाभै: सुतमिव सततं पातितं सा च देवी सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं प्रयाति ॥ ११ ॥

निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोध: कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् । दीर्घायुर्लोकपूज्य: सकलगुणनिधि: सन्ततं राजमान्यो वाग्देव्या: संप्रसादात्रिजगति विजयी जायते सत्सभासु ॥ १२ ॥

ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिष: । सारस्वतो जन: पाठात्सकृदिष्टार्थलाभवान् ॥ १३ ॥

पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया । अविच्छिन्न: पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् ॥ १४ ॥

सर्वपापविनिर्मुक्त: सुभगो लोकविश्रुत: । वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशय: ॥ १५ ॥

ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्या: स्तवं शुभम् । प्रयत्‍नेन पठेन्नित्यं सोऽमृतवाय कल्पते ॥ १६ ॥

इति श्रीमद्‌ब्रह्मणा विरचित सरस्वतीस्तोत्रं संपूर्णम् ।